ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्। ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टमः सर्गः ॥३-
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत
उत्थाय च यथाकालं राघवः सह सीतया। उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः। सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिः सीतया सह राघवः
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः। गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह। सीतया चानया सार्धं छाययेवानुवृत्तया
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्
सुप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च
फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च। रमणीयान्यरण्यानि मयूराभिरुतानि च
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे
ततः शुभतरे तूणी धनुषी चायतेक्षणा। ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः
आबध्य च शुभे तूणी चापे चादाय सस्वने। निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ
शीघ्रं तौ रूपसम्पन्नावनुज्ञातौ महर्षिणा। प्रस्थितौ धृतचापासी सीतया सह राघवौ
thumb|नवमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे नवमः सर्गः ॥३-
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्। हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्
अधर्मं तु सुसूक्ष्मेण विधिना प्राप्यते महान्। निवृत्तेन च शक्योऽयं व्यसनात् कामजादिह
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत। मिथ्यावाक्यं तु परमं तस्माद् गुरुतरावुभौ
परदाराभिगमनं विना वैरं च रौद्रता। मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्। तव नास्ति मनुष्येन्द्र न चाभूत् ते कदाचन
मनस्यपि तथा राम न चैतद् विद्यते क्वचित्। स्वदारनिरतश्चैव नित्यमेव नृपात्मज
धर्मिष्ठः सत्यसंधश्च पितुर्निर्देशकारकः। त्वयि धर्मश्च सत्यं च त्वयि सर्वं प्रतिष्ठितम्
तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः। तव वश्येन्द्रियत्वं च जानामि शुभदर्शन