अहमेवाहरिष्यामि स्वयं लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः। आख्यातं शरभङ्गेन गौतमेन महात्मना
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः। अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः
अयमेवाश्रमो राम गुणवान् रम्यतामिति। ऋषिसंघानुचरितः सदा मूलफलैर्युतः
इममाश्रममागम्य मृगसंघा महीयसः। अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः
नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै। तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः
उवाच वचनं धीरो विगृह्य सशरं धनुः। तानहं सुमहाभाग मृगसंघान् समागतान्
हन्यां निशितधारेण शरेणानतपर्वणा। भवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः
एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये। तमेवमुक्त्वोपरमं रामः संध्यामुपागमत्
अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च
ततः शुभं तापसयोग्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्। ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य
thumb|अष्टमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे अष्टमः सर्गः ॥३-
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः। परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत
उत्थाय च यथाकालं राघवः सह सीतया। उपस्पृश्य सुशीतेन तोयेनोत्पलगन्धिना
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ। काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः। सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः। आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्। ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुंगवैः। धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः। ववन्दे सहसौमित्रिः सीतया सह राघवः
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः। गाढमाश्लिष्य सस्नेहमिदं वचनमब्रवीत्
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह। सीतया चानया सार्धं छाययेवानुवृत्तया
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्। एषां तपस्विनां वीर तपसा भावितात्मनाम्
सुप्राज्यफलमूलानि पुष्पितानि वनानि च। प्रशस्तमृगयूथानि शान्तपक्षिगणानि च
फुल्लपङ्कजखण्डानि प्रसन्नसलिलानि च। कारण्डवविकीर्णानि तटाकानि सरांसि च
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च। रमणीयान्यरण्यानि मयूराभिरुतानि च
गम्यतां वत्स सौमित्रे भवानपि च गच्छतु। आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं प्रति
एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः। प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे
ततः शुभतरे तूणी धनुषी चायतेक्षणा। ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः
आबध्य च शुभे तूणी चापे चादाय सस्वने। निष्क्रान्तावाश्रमाद् गन्तुमुभौ तौ रामलक्ष्मणौ