सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्। त्वन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम्
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्। हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने
पम्पानदीनिवासानामनुमन्दाकिनीमपि। चित्रकूटालयानां च क्रियते कदनं महत्
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्। क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः। परिपालय नो राम वध्यमानान् निशाचरैः
परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते। परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज
एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्। इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः
नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनाम्। केवलेन स्वकार्येण प्रवेष्टव्यं वनं मया
विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्। पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्
भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया। तस्य मेऽयं वने वासो भविष्यति महाफलः
तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्। पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः
दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन। तपोधनैश्चापि सहार्यदत्तः सुतीक्ष्णमेवाभिजगाम वीरः
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तमः सर्गः ॥३-
रामस्तु सहितो भ्रात्रा सीतया च परंतपः। सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः
स गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः। ददर्श विमलं शैलं महामेरुमिवोन्नतम्
ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः। काननं तौ विविशतुः सीतया सह राघवौ
प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्। ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्
तत्र तापसमासीनं मलपङ्कजधारिणम्। रामः सुतीक्ष्णं विधिवत् तपोधनमभाषत
रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः। तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम
स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर। आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम्
प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः। देवलोकमितो वीर देहं त्यक्त्वा महीतले
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः। इहोपयातः काकुत्स्थ देवराजः शतक्रतुः
उपागम्य च मे देवो महादेवः सुरेश्वरः। सर्वाल्ँ लोकाञ्जितानाह मम पुण्येन कर्मणा
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया। मत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः
तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम्। प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः
अहमेवाहरिष्यामि स्वयं लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः। आख्यातं शरभङ्गेन गौतमेन महात्मना
एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः। अब्रवीन्मधुरं वाक्यं हर्षेण महता युतः
अयमेवाश्रमो राम गुणवान् रम्यतामिति। ऋषिसंघानुचरितः सदा मूलफलैर्युतः
इममाश्रममागम्य मृगसंघा महीयसः। अहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः