अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने। आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै। शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः। वसत्यरण्ये नियतः स ते श्रेयो विधास्यति
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्। रमणीये वनोद्देशे स ते वासं विधास्यति
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज। नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्। यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् । शरभङ्गो महातेजाः प्रविवेश हुताशनम्
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः। जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम्
स च पावकसंकाशः कुमारः समपद्यत। उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत
स लोकानाहिताग्नीनामृषीणां च महात्मनाम्। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत
स पुण्यकर्मा भुवने द्विजर्षभः पितामहं सानुचरं ददर्श ह। पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच ह
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे षष्ठः सर्गः ॥३-
शरभङ्गे दिवं प्राप्ते मुनिसङ्घाः समागताः। अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्
वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः। अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः
दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे। गात्रशय्या अशय्याश्च तथैवानवकाशिकाः
मुनयः सलिलाहारा वायुभक्षास्तथापरे। आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः
तथोर्ध्ववासिनो दान्तास्तथाऽऽर्द्रपटवाससः। सजपाश्च तपोनिष्ठास्तथा पञ्चतपोऽन्विताः
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्। ऊचुः परमधर्मज्ञमृषिसङ्घाः समागताः
त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः। प्रधानश्चापि नाथश्च देवानां मघवानिव
विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च। पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः
त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्। अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि
अधर्मः सुमहान् नाथ भवेत् तस्य तु भूपतेः। यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत्
युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव। नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्। ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते
यत् करोति परं धर्मं मुनिर्मूलफलाशनः। तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः
सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्। त्वन्नाथोऽनाथवद् राम राक्षसैर्हन्यते भृशम्
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्। हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने
पम्पानदीनिवासानामनुमन्दाकिनीमपि। चित्रकूटालयानां च क्रियते कदनं महत्
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्। क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः
ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः। परिपालय नो राम वध्यमानान् निशाचरैः