अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्। कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्। आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह
तस्य देवप्रभावस्य तपसा भावितात्मनः। समीपे शरभङ्गस्य ददर्श महदद्भुतम्
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्। सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः। हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्। पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम्। चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि। गन्धर्वामरसिद्धाश्च बहवः परमर्षयः
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन्। सह सम्भाषमाणे तु शरभङ्गेन वासवे
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्। रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम्
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण। प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः। अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम्। शतं शतं कुण्डलिनो युवानः खड्गपाणयः
विस्तीर्णविपुलोरस्काः परिघायतबाहवः। शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः। रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्
एतद्धि किल देवानां वयो भवति नित्यदा। यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण। यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति। अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः। शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्
इहोपयात्यसौ रामो यावन्मां नाभिभाषते। निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति
जितवन्तं कृतार्थं हि तदाहमचिरादिमम्। कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम्। रथेन हययुक्तेन ययौ दिवमरिंदमः
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः। अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः। निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः
ततः शक्रोपयानं तु पर्यपृच्छत राघवः। शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत्
मामेष वरदो राम ब्रह्मलोकं निनीषति। जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः। ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना। समागम्य गमिष्यामि त्रिदिवं चावरं परम्
अक्षया नरशार्दूल जिता लोका मया शुभाः। ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः। ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्