इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः। इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्
हतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै। मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ
कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया। वैदेही च महाभागा लक्ष्मणश्च महायशाः
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्। तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति। अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह
इति वैश्रवणो राजा रम्भासक्तमुवाच ह। तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप। इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः। तं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति
अवटे चापि मां राम निक्षिप्य कुशली व्रज। रक्षसां गतसत्त्वानामेष धर्मः सनातनः
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः। एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः। तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन्सुमहान् श्वभ्रः खन्यतां रौद्रकर्मणः
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्। अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः
तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम्। विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्
तमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ। मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बलेन राक्षसम्
अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ। समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः
स्वयं विराधेन हि मृत्युमात्मनः प्रसह्य रामेण यथार्थमीप्सितः। निवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति
तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने। बिलं च तेनातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्
प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्यां प्रदरे निपात्य तम्। ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्
ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्। विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चमः सर्गः ॥३-
हत्वा तु तं भीमबलं विराधं राक्षसं वने। ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्। कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्। आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह
तस्य देवप्रभावस्य तपसा भावितात्मनः। समीपे शरभङ्गस्य ददर्श महदद्भुतम्
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्। सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम्
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः। हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्