यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिबलोद्धतः
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो विनदन् घोरं जगामाभिमुखो वनम्
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्। नानाविधैः पक्षिकुलैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्थः सर्गः ॥३-
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ। उच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ
एष दाशरथी रामः सत्यवाञ्छीलवान् शुचिः। रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः
मामृक्षा भक्षयिष्यन्ति शार्दूलद्वीपिनस्तथा। मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम
तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह। रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः
स भग्नबाहुः संविग्नः पपाताशु विमूर्च्छितः। धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः
मुष्टिभिर्बाहुभिः पद्भिः सूदयन्तौ तु राक्षसम्। उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः
स विद्धौ बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः। निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्। भयेष्वभयदः श्रीमानिदं वचनमब्रवीत्
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते। शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्
तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः। इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्
हतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै। मया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ
कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया। वैदेही च महाभागा लक्ष्मणश्च महायशाः
अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्। तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि
प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। यदा दाशरथी रामस्त्वां वधिष्यति संयुगे
तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति। अनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह
इति वैश्रवणो राजा रम्भासक्तमुवाच ह। तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्
भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप। इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्
अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः। तं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति
अवटे चापि मां राम निक्षिप्य कुशली व्रज। रक्षसां गतसत्त्वानामेष धर्मः सनातनः
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः। एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः
बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः। तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह
कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। वनेऽस्मिन्सुमहान् श्वभ्रः खन्यतां रौद्रकर्मणः
इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्