तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः
तमुवाच विराधस्तु रामं सत्यपराक्रमम्। हन्त वक्ष्यामि ते राजन् निबोध मम राघव
पुत्रः किल जवस्याहं माता मम शतह्रदा। विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः
तपसा चाभिसम्प्राप्ता ब्रह्मणो हि प्रसादजा। शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च
उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्। त्वरमाणौ पलायेथां न वां जीवितमाददे
तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः। राक्षसं विकृताकारं विराधं पापचेतसम्
क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्। रणे प्राप्स्यसि संतिष्ठ न मे जीवन् विमोक्ष्यसे
ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान्। सुशीघ्रमभिसंधाय राक्षसं निजघान ह
धनुषा ज्यागुणवता सप्त बाणान् मुमोच ह। रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्
ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः। निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः
स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः। अभ्यद्रवत् सुसंक्रुद्धस्तदा रामं सलक्ष्मणम्
स विनद्य महानादं शूलं शक्रध्वजोपमम्। प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः
अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः। विराधे राक्षसे तस्मिन् कालान्तकयमोपमे
स प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः। जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः
स्पर्शात् तु वरदानेन प्राणान् संरोध्य राक्षसः। विराधः शूलमुद्यम्य राघवावभ्यधावत
तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्। द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः
तद् रामविशिखैश्छिन्नं शूलं तस्यापतद् भुवि। पपाताशनिना छिन्नं मेरोरिव शिलातलम्
तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पाविवोद्यतौ। तूर्णमापेततुस्तस्य तदा प्रहरतां बलात्
स वध्यमानः सुभृशं भुजाभ्यां परिगृह्य तौ। अप्रकम्प्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत
तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्। वहत्वयमलं तावत् पथानेन तु राक्षसः
यथा चेच्छति सौमित्रे तथा वहतु राक्षसः। अयमेव हि नः पन्था येन याति निशाचरः
स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः। बालाविव स्कन्धगतौ चकारातिबलोद्धतः
तावारोप्य ततः स्कन्धं राघवौ रजनीचरः। विराधो विनदन् घोरं जगामाभिमुखो वनम्
वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्। नानाविधैः पक्षिकुलैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुर्थः सर्गः ॥३-
ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ। उच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ
एष दाशरथी रामः सत्यवाञ्छीलवान् शुचिः। रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः
मामृक्षा भक्षयिष्यन्ति शार्दूलद्वीपिनस्तथा। मां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम
तस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह। रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः
स भग्नबाहुः संविग्नः पपाताशु विमूर्च्छितः। धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः