तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः। न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत
निष्कूजमानशकुनिं झिल्लिकागणनादितम्। लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्
गभीराक्षं महावक्त्रं विकटं विकटोदरम्। बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्। त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो महत्
अवसज्यायसे शूले विनदन्तं महास्वनम्। स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्
अभ्यधावत् सुसंक्रुद्धः प्रजाः काल इवान्तकः स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्
अङ्केनादाय वैदेहीमपक्रम्य तदाब्रवीत्। युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ
प्रविष्टौ दण्डकारण्यं शरचापासिपाणिनौ। कथं तापसयोर्वां च वासः प्रमदया सह
अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ। अहं वनमिदं दुर्गं विराधो नाम राक्षसः
चरामि सायुधो नित्यमृषिमांसानि भक्षयन्। इयं नारी वरारोहा मम भार्या भविष्यति
युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे। तस्यैवं ब्रुवतो दुष्टं विराधस्य दुरात्मनः
श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा। सीता प्रवेपितोद्वेगात् प्रवाते कदली यथा
तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्। अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता
पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसम्भवाम्। मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्
अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम्। यदभिप्रेतमस्मासु प्रियं वरवृतं च यत्
कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण। या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी
ययाहं सर्वभूतानां प्रियः प्रस्थापितो वनम्। अद्येदानीं सकामा सा या माता मध्यमा मम
परस्पर्शात् तु वैदेह्या न दुःखतरमस्ति मे। पितुर्विनाशात् सौमित्रे स्वराज्य हरणात् तथा
इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुतः। अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्
अनाथ इव भूतानां नाथस्त्वं वासवोपमः। मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे
शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः। विराधस्य गतासोर्हि मही पास्यति शोणितम्
राज्यकामे मम क्रोधो भरते यो बभूव ह। तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले
मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि। व्यपनयतु तनोश्च जीवितं पततु ततश्च महीं विघूर्णितः
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे तृतीयः सर्गः ॥३-
अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्। पृच्छतो मम हि ब्रूतं कौ युवां क्व गमिष्यथः
तमुवाच ततो रामो राक्षसं ज्वलिताननम्। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः