कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः। विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः। तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्। तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः। दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम्। ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्। ददृशुर्विस्मिताकारा रामस्य वनवासिनः
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव। आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः
अत्रैनं हि महाभागाः सर्वभूतहिते रताः। अतिथिं पर्णशालायां राघवं संन्यवेशयन्
ततो रामस्य सत्कृत्य विधिना पावकोपमाः। आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः
मङ्गलानि प्रयुञ्जाना मुदा परमया युताः। मूलं पुष्पं फलं सर्वमाश्रमं च महात्मनः
निवेदयित्वा धर्मज्ञास्ते तु प्राञ्जलयोऽब्रुवन्। धर्मपालो जनस्यास्य शरण्यश्च महायशाः
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः। इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव
राजा तस्माद् वरान् भोगान् रम्यान् भुङ्क्ते नमस्कृतः। ते वयं भवता रक्ष्या भवद्विषयवासिनः। नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः
न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः। रक्षणीयास्त्वया शश्वद् गर्भभूतास्तपोधनाः
एवमुक्त्वा फलैर्मूलैः पुष्पैरन्यैश्च राघवम्। वन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्
तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः। न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वितीयः सर्गः ॥३-
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति। आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत
निष्कूजमानशकुनिं झिल्लिकागणनादितम्। लक्ष्मणानुचरो रामो वनमध्यं ददर्श ह
सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्
गभीराक्षं महावक्त्रं विकटं विकटोदरम्। बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्। त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्
त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश। सविषाणं वसादिग्धं गजस्य च शिरो महत्
अवसज्यायसे शूले विनदन्तं महास्वनम्। स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्