गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.
सा तथा समलंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.
तथा तु भूषितां सीतां ददर्श वदतां वर: । राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.
तावूचुस्ते वनचरास्तापसा धर्मचारिण: । वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.
रक्षांसि पुरुषादानि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.
एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग:
thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः। विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्युतम्
पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः। तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्
ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्। तद् दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्
अभ्यगच्छन्महातेजा विज्यं कृत्वा महद् धनुः। दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः
अभिजग्मुस्तदा प्रीता वैदेहीं च यशस्विनीम्। ते तु सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणम्
लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम्। मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः
रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्। ददृशुर्विस्मिताकारा रामस्य वनवासिनः
वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव। आश्चर्यभूतान् ददृशुः सर्वे ते वनवासिनः
अत्रैनं हि महाभागाः सर्वभूतहिते रताः। अतिथिं पर्णशालायां राघवं संन्यवेशयन्
ततो रामस्य सत्कृत्य विधिना पावकोपमाः। आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः