एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग:
thumb|एकोनविंशत्यधिकशततमः सर्गः श्रूयताम्|center thumb|मङ्गलशासनम्|center अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.
एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। २.११९.
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। २.११९.
अल्पपर्णाहि तरवो घनीभूता: समन्तत: । विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। २.११९.
रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २.११९.
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। २.११९.
गम्यतामनुजानामि रामस्यानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.
सा तथा समलंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.
तथा तु भूषितां सीतां ददर्श वदतां वर: । राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.
न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.
ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.
तावूचुस्ते वनचरास्तापसा धर्मचारिण: । वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.
रक्षांसि पुरुषादानि नानारूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.
एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.
इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.
इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग:
thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥३-
कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्। यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्
शरण्यं सर्वभूतानां सुसम्मृष्टाजिरं सदा। मृगैर्बहुभिराकीर्णं पक्षिसंघैः समावृतम्
पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः। विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः
समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्। आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्
बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्। पुष्पैश्चान्यैः परिक्षिप्तं पद्मिन्या च सपद्मया