स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.
अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.
तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.
महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.
तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.
इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.
तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.
सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.
इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.
ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.
दीयमानां न तु तदा प्रतिजग्राह राघव: । अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.
तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग:
thumb|एकोनविंशत्यधिकशततमः सर्गः श्रूयताम्|center thumb|मङ्गलशासनम्|center अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.
रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.