तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ।। २.११७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग:
thumb|अष्टादशशततमः सर्गः श्रूयताम्|center सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.
किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.
यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.
वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.
एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.
ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.
उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.
तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.
तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.