अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। २.११६.
राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। २.११६.
आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। २.११६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग:
thumb|सप्तदशाधिकशततमः सर्गः श्रूयताम्|center राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। २.११७.
इह मे भरतो दृष्टो मातरश्च सनागरा: । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। २.११७.
स्कन्धावारनिवेशेन तेन तस्य महात्मन: । हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। २.११७.
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। २.११७.
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: । तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। २.११७.
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। २.११७.
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। २.११७.
अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: । रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। २.११७.
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। २.११७.
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । दशवर्षसहस्राणि यया तप्तं महत्तप: ।। २.११७.
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: । देवकार्यनिमित्तं च यया संत्वरमाणया । दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। २.११७.
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। २.११७.
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: । सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। २.११७.
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। २.११७.
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: । तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। २.११७.
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ।। २.११७.
तां तु सीता महाभागामनसूयां पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। २.११७.
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् । बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।। २.११७.
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।। २.११७.
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।। २.११७.
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ।। २.११७.
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: । स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ।। २.११७.
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ।। २.११७.
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: । कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ।। २.११७.
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ।। २.११७.
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: । स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ।। २.११७.