दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि । नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ।। २.११६.
अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् । प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ।। २.११६.
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ।। २.११६.
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।। २.११६.
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: । गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ।। २.११६.
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।। २.११६.
बहुमूलफलं चित्रमविदूरादितो वनम् । पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ।। २.११६.
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ।। २.११६.
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ।। २.११६.
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ।। २.११६.
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। २.११६.
राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। २.११६.
आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। २.११६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग:
thumb|सप्तदशाधिकशततमः सर्गः श्रूयताम्|center राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। २.११७.
इह मे भरतो दृष्टो मातरश्च सनागरा: । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। २.११७.
स्कन्धावारनिवेशेन तेन तस्य महात्मन: । हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। २.११७.
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। २.११७.
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: । तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। २.११७.
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। २.११७.
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। २.११७.
अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: । रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। २.११७.
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। २.११७.
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । दशवर्षसहस्राणि यया तप्तं महत्तप: ।। २.११७.
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: । देवकार्यनिमित्तं च यया संत्वरमाणया । दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। २.११७.
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। २.११७.
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: । सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। २.११७.
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। २.११७.
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: । तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। २.११७.
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ।। २.११७.