रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। २.११५.
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। २.११५.
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ।। २.११५.
भरत: शिरसा कृत्वा संन्यासं पादुके तत: । अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। २.११५.
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। २.११५.
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।। २.११५.
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। २.११५.
ततो निक्षिप्तभारो ऽहं राघवेण समागत: । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। २.११५.
राघवाय च संन्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। २.११५.
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। २.११५.
एवं तु विलपन् दीनो भरत: स महायशा: । नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। २.११५.
स वल्कलजटाधारी मुनिवेषधर: प्रभु: । नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। २.११५.
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। २.११५.
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। २.११५.
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ।। २.११५.
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। २.११५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग:
thumb|षोडशाधिकशततमः सर्गः श्रूयताम्|center प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। २.११६.
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। २.११६.
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। २.११६.
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: । कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ।। २.११६.
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ।। २.११६.
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ।। २.११६.
कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि । प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।। २.११६.
अथर्षिर्जरया वृद्धस्तपसा च जरां गत: । वेपमान इवोवाच रामं भूतदयापरम् ।। २.११६.
कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा । चलनं तात वैदेह्यास्तपस्विषु विशेषत: ।। २.११६.
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ।। २.११६.
रावणावरज: कश्चित् खरो नामेह राक्षस: । उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।। २.११६.
धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: । अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।। २.११६.
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। २.११६.