नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। २.११५.
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। २.११५.
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। २.११५.
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। २.११५.
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। २.११५.
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। २.११५.
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। २.११५.
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। २.११५.
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। २.११५.
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिन: ।। २.११५.
रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। २.११५.
ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। २.११५.
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । योगक्षेमवहे चेमे पादुके हेमभूषिते ।। २.११५.
भरत: शिरसा कृत्वा संन्यासं पादुके तत: । अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। २.११५.
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। २.११५.
भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ।। २.११५.
क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। २.११५.
ततो निक्षिप्तभारो ऽहं राघवेण समागत: । निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। २.११५.
राघवाय च संन्यासं दत्त्वे मे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। २.११५.
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। २.११५.
एवं तु विलपन् दीनो भरत: स महायशा: । नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। २.११५.
स वल्कलजटाधारी मुनिवेषधर: प्रभु: । नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। २.११५.
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। २.११५.
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। २.११५.
ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ।। २.११५.
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। २.११५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग:
thumb|षोडशाधिकशततमः सर्गः श्रूयताम्|center प्रतिप्रयाते भरते वसन् रामस्तपोवने । लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। २.११६.
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। २.११६.
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। २.११६.