क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । प्रमत्तगजनादश्च महांश्च रथनिस्वन: । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.
कदा नु खलु मे भ्राता महोत्सव इवागत: । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.
एवं बहुविधं जल्पन् विवेश वसतिं पितु: । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग:
thumb|पञ्चदशाधिकशततमः सर्गः श्रूयताम्|center ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। २.११५.
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। २.११५.
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। २.११५.
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। २.११५.
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। २.११५.
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। २.११५.
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। २.११५.
प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। २.११५.
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। २.११५.
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। २.११५.
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । प्रययौ भरते याते सर्वे च पुरवासिन: ।। २.११५.