यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। २.११३.
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। २.११३.
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। २.११३.
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। २.११३.
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। २.११३.
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। २.११३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग:
thumb|चतुर्दशाधिकशततमः सर्गः श्रूयताम्|center स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.