इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग:
thumb|त्रयोदशाधिकशततमः सर्गः श्रूयताम्|center तत: शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। २.११३.
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। २.११३.
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। २.११३.
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। २.११३.
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। २.११३.
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। २.११३.
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ।। २.११३.
एवमुक्त: स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। २.११३.
स याच्यमानो गुरुणा मया च दृढविक्रम: । राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। २.११३.
पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: । चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। २.११३.
एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह । वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।। २.११३.
एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते । अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।। २.११३.
एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: । पादुके अधिरुह्यैते मम राज्याय वै ददौ ।। २.११३.
निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना । अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।। २.११३.
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ।। २.११३.
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।। २.११३.
अमृत: स महाबाहु: पिता दशरथस्तव । यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ।। २.११३.
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: । आमतन्त्रयितुमारेभे चरणावुपगृह्य च ।। २.११३.
तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: । भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ।। २.११३.
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। २.११३.
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। २.११३.
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। २.११३.
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। २.११३.
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। २.११३.
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। २.११३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग:
thumb|चतुर्दशाधिकशततमः सर्गः श्रूयताम्|center स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.