ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ।। २.११२.
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।। २.११२.
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवद: ।। २.११२.
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।। २.११२.
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।। २.११२.
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।। २.११२.
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ।। २.११२.
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ।। २.११२.
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।। २.११२.
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ।। २.११२.
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ।। २.११२.
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।। २.११२.
फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ।। २.११२.
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप । चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।। २.११२.
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।। २.११२.
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तो ऽसि रघुसत्तम ।। २.११२.
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ।। २.११२.
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् । प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ।। २.११२.
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ।। २.११२.
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: । स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ।। २.११२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग:
thumb|त्रयोदशाधिकशततमः सर्गः श्रूयताम्|center तत: शिरसि कृत्वा तु पादुके भरतस्तदा । आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। २.११३.
वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। २.११३.
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। २.११३.
पश्यन् धातुसहस्राणि रम्याणि विविधानि च । प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। २.११३.
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। २.११३.
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। २.११३.
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । अपि कृत्यं कृतं तात रामेण च समागतम् ।। २.११३.
एवमुक्त: स तु ततो भरद्वाजेन धीमता । प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। २.११३.
स याच्यमानो गुरुणा मया च दृढविक्रम: । राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। २.११३.