न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग:
thumb|द्वादशाधिकशततमः सर्गः श्रूयताम्|center तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। २.११२.
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।। २.११२.
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ।। २.११२.
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: । भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ।। २.११२.
कुले जात महाप्राज्ञ महावृत्त महायश: । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।। २.११२.
सदानृणमिमं रामं वयमिच्छामहे पितु: । अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ।। २.११२.
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ।। २.११२.
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: । राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ।। २.११२.
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।। २.११२.
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ।। २.११२.
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ।। २.११२.
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ।। २.११२.
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।। २.११२.
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवद: ।। २.११२.
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।। २.११२.
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।। २.११२.
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।। २.११२.
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ।। २.११२.
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ।। २.११२.
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।। २.११२.
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ।। २.११२.