इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.
भरतस्य वच: कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.
यन्मातापितरौ वृत्तं तनये कुरुत: सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.
अनाहारो निरालोको धनहीनो यथा द्विज: । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ।। २.१११.
तमुवाच महातेजा रामो राजर्षिसत्तम: । किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ।। २.१११.
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ।। २.१११.
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ।। २.१११.
आसीनस्त्वेव भरत: पौरजानपदं जनम् । उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ।। २.१११.
ते तमूचुर्महात्मानं पौरजानपदा जना: । काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ।। २.१११.
एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति । अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ।। २.१११.
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।। २.१११.
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ।। २.१११.
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ।। २.१११.
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ।। २.१११.
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: । अहमेव निवत्स्यामि चतुर्दश समा वने ।। २.१११.
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: । उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ।। २.१११.
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ।। २.१११.
अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २.१११.
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। २.१११.
अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: । भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ।। २.१११.
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतन्मोचयानेन पितरं तं महीपतिम् ।। २.१११.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकादशोत्तरशततम: सर्ग:
thumb|द्वादशाधिकशततमः सर्गः श्रूयताम्|center तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। २.११२.