कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। २.११०.
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जात: स सगरो ऽभवत् ।। २.११०.
स राजा सगरो नाम य: समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। २.११०.
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। २.११०.
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। २.११०.
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। २.११०.
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। २.११०.
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २.११०.
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। २.११०.
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। २.११०.
अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: । नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ।। २.११०.
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ।। २.११०.
तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: । तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।। २.११०.
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: । पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ।। २.११०.
स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ।। २.११०.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग:
thumb|एकादशाधिकशततमः सर्गः श्रूयताम्|center वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ।। २.१११.
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: । आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ।। २.१११.
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ।। २.१११.
सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप । मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.
इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ।। २.१११.
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ।। २.१११.
भरतस्य वच: कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ।। २.१११.
एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ।। २.१११.
यन्मातापितरौ वृत्तं तनये कुरुत: सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ।। २.१११.
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ।। २.१११.
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ।। २.१११.
एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् । उवाच परमोदार: सूतं परमदुर्मना: ।। २.१११.
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ।। २.१११.
अनाहारो निरालोको धनहीनो यथा द्विज: । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ।। २.१११.