इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग:
thumb|दशाधिकशततमः सर्गः श्रूयताम्|center क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। २.११०.
निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।। २.११०.
सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह । स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।। २.११०.
असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: । आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ।। २.११०.
तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ।। २.११०.
विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: । स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ।। २.११०.
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। २.११०.
इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: । कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ।। २.११०.
विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् । बाणस्य तु महाबाहुरनरण्यो महायशा: ।। २.११०.
नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । अनरण्ये महाराजे तस्करो नापि कश्चन ।। २.११०.
अनरण्यान्महाबाहु: पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत । स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ।। २.११०.
त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: । धुन्धुमारो महातेजा युवनाश्वो व्यजायत ।। २.११०.
युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ।। २.११०.
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ।। २.११०.
भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्त शत्रव: । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ।। २.११०.
तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: । स च शैलवरे रम्ये बभूवाभिरतो मुनि: ।। २.११०.
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: । एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। २.११०.
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: । तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।। २.११०.
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: । धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ।। २.११०.
कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। २.११०.
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । गरेण सह तेनैव जात: स सगरो ऽभवत् ।। २.११०.
स राजा सगरो नाम य: समुद्रमखानयत् । इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। २.११०.
असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। २.११०.
अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। २.११०.
भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। २.११०.
रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। २.११०.
कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २.११०.
शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। २.११०.
शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। २.११०.