सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ।। २.१०९.
ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ।। २.१०९.
उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: । धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।। २.१०९.
सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। २.१०९.
दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।। २.१०९.
एक: पालयते लोकमेक: पालयते कुलम् । मज्जत्येको हि निरय एक: स्वर्गे महीयते ।। २.१०९.
सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ।। २.१०९.
नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: । सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ।। २.१०९.
असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: । नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ।। २.१०९.
प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।। २.१०९.
क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ।। २.१०९.
कायेन कुरुते पापं मनसा सम्प्रधार्य च । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। २.१०९.
भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि । स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।। २.१०९.
श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् । आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।। २.१०९.
कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ।। २.१०९.
स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।। २.१०९.
वनवासं वसन्नेवं शुचिर्नियतभोजन: । मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ।। २.१०९.
सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये । अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ।। २.१०९.
कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ।। २.१०९.
शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: । तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ।। २.१०९.
अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।। २.१०९.
सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ।। २.१०९.
तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: । धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ।। २.१०९.
निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।। २.१०९.
यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ।। २.१०९.
त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: । जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ।। २.१०९.
धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: । अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ।। २.१०९.
इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ।। २.१०९.
न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः।।२.१०९.
स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता । निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।। २.१०९.