शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् । चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ।। २.१०७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग:
thumb|अष्टाधिकशततमः सर्गः श्रूयताम्|center आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तम: । उवाच रामं धर्मज्ञं धर्मापेतमिदं वच: ।। २.१०८.
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विन: ।। २.१०८.
क: कस्य पुरुषो बन्धु: किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ।। २.१०८.
तस्मान्माता पिता चेति राम सज्जेतयो नर: । उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ।। २.१०८.
यथा ग्रामान्तरं गच्छन् नर: कश्चित् क्वचिद्वसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरे ऽहनि ।। २.१०८.
एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जना: ।। २.१०८.
पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातुं कापथं दु:खं विषमं बहुकण्टकम् ।। २.१०८.
समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ।। २.१०८.
राजभोगाननुभवन् महार्हान् पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ।। २.१०८.
न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्य: स तस्मात् कुरु यदुच्यते ।। २.१०८.
बीजमात्रं पिता जन्तो: शुक्लं रुधिरमेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ।। २.१०८.
गत: स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे ।। २.१०८.
अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान् । ते हि दु:खमिह प्राप्य विनाशं प्रेत्य भेजिरे ।। २.१०८.
अष्टका पितृदैवत्यमित्ययं प्रसृतो जन: । अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ।। २.१०८.
यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात् प्रवसत: श्राद्धं न तत् पथ्यशनं भवेत् ।। २.१०८.
दानसंवनना ह्येते ग्रन्था मेधाविभि: कृता: । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ।। २.१०८.
स नास्ति परमित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठत: कुरु ।। २.१०८.
स तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादित: ।। २.१०८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टोत्तरशततम: सर्ग:
thumb|नवाधिकशततमः सर्गः श्रूयताम्|center जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। २.१०९.
भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। २.१०९.
निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: । मानं न लभते सत्सु भिन्नचारित्रदर्शन: ।। २.१०९.
कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ।। २.१०९.
अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: । लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ।। २.१०९.
अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।। २.१०९.
कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: । बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।। २.१०९.
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ।। २.१०९.
कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते । यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ।। २.१०९.