इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ।। २.१०६.
इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह । ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ।। २.१०६.
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । विजित्य तरसा लोकान् मरुद्भिरिव वासव: ।। २.१०६.
ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।। २.१०६.
अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने । अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ।। २.१०६.
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।। २.१०६.
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ।। २.१०६.
अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: । गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ।। २.१०६.
तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: । न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ।। २.१०६.
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: । न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ।। २.१०६.
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातर: । तथा ब्रुवाणं भरतं प्रतुष्टुवु: प्रणम्य रामं च ययाचिरे सह ।। २.१०६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडुत्तरशततम: सर्ग:
thumb|सप्ताधिकशततमः सर्गः श्रूयताम्|center पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। २.१०७.
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। २.१०७.
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। २.१०७.
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: । सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ।। २.१०७.
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी । अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।। २.१०७.
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ।। २.१०७.
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ।। २.१०७.
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: । सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ।। २.१०७.
भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ।। २.१०७.
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ।। २.१०७.
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । गयेन यजमानेन गयेष्वेव पितऽन् प्रति ।। २.१०७.
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: । तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ।। २.१०७.
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: । तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ।। २.१०७.
एवं राजर्षय: सर्वे प्रतीता राजनन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ।। २.१०७.
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ।। २.१०७.
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ।। २.१०७.
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ।। २.१०७.
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ।। २.१०७.