परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।। २.१०६.
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: । सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ।। २.१०६.
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दु:खमासादयितुमर्हति ।। २.१०६.
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।। २.१०६.
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् । हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।। २.१०६.
कथं दशरथाज्जात: शुद्धाभिजनकर्मण: । जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ।। २.१०६.
गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च । तातं न परिगर्हेयं दैवतं चेति संसदि ।। २.१०६.
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ।। २.१०६.
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: । राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ।। २.१०६.
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।। २.१०६.
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ।। २.१०६.
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितु: । अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ।। २.१०६.
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च न: । पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ।। २.१०६.
क्व चारण्यं क्व च क्षात्ऺत्र क्व जटा: क्व च पालनम् । ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ।। २.१०६.
एष हि प्रथमो धर्म: क्षत्ऺित्रयस्याभिषेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ।। २.१०६.
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् । आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ।। २.१०६.
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि । धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ।। २.१०६.
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् । प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ।। २.१०६.
श्रुतेन बाल: स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति ।। २.१०६.
हीनबुद्धिगुणो बालो हीन: स्थानेन चाप्यहम् । भवता च विनाभूतो न वर्त्तयितुमुत्सहे ।। २.१०६.
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् । अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवै: ।। २.१०६.
इहैव त्वा ऽभिषिञ्चन्तु सर्वा: प्रकृतय: सह । ऋत्विज: सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदा: ।। २.१०६.
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज । विजित्य तरसा लोकान् मरुद्भिरिव वासव: ।। २.१०६.
ऋणानि त्रीण्यपाकुर्वन् दुर्हृद: साधु निर्द्दहन् । सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ।। २.१०६.
अद्यार्य मुदिता: सन्तु सुहृदस्ते ऽभिषेचने । अद्य भीता: पलायन्तां दुर्हृदस्ते दिशो दश ।। २.१०६.
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ । अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ।। २.१०६.
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि । बान्धवेषु च सर्वेषु भूतेष्विव महेश्वर: ।। २.१०६.
अथैतत् पृष्ठत: कृत्वा वनमेव भवानित: । गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ।। २.१०६.
तथाहि रामो भरतेन ताम्यता प्रसाद्यमान: शिरसा महीपति: । न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थित: ।। २.१०६.
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दु:खित: । न यात्ययोध्यामिति दु:खितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षित: ।। २.१०६.