धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। २.१०५.
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। २.१०५.
कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। २.१०५.
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। २.१०५.
आयुरुत्तममासाद्य भोगानपि च राघव: । स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। २.१०५.
स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। २.१०५.
तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। २.१०५.
एते बहुविधा: शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। २.१०५.
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। २.१०५.
यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। २.१०५.
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ।। २.१०५.
तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: । कर्मणा पालयिष्यामि वनवासेन राघव ।। २.१०५.
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । भवितव्यं नरव्याघ्र परलोकं जिगीषता ।। २.१०५.
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ।। २.१०५.
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ।। २.१०५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग:
thumb|षडधिकशततमः सर्गः श्रूयताम्|center एवमुक्त्वा तु विरते रामे वचनमर्थवत् । ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् । उवाच भरतश्चित्रं धार्मिको धार्मिकं वच: ।। २.१०६.
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम । न त्वां प्रव्यथयेद्दु:खं प्रीतिर्वा न प्रहर्षयेत् ।। २.१०६.
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ।। २.१०६.
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति । यस्यैष बुद्धिलाभ: स्यात्परितप्येत केन स: ।। २.१०६.
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप । स एवं व्यसनं प्राप्य न विषीदितुमर्हति ।। २.१०६.
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गर: । सर्वज्ञ: सर्वदर्शी च बुद्धिमांश्चासि राघव ।। २.१०६.
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् । अविषह्यतमं दु:खमासादयितुमर्हति ।। २.१०६.
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ।। २.१०६.
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् । हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ।। २.१०६.
कथं दशरथाज्जात: शुद्धाभिजनकर्मण: । जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ।। २.१०६.
गुरु: क्रियावान् वृद्धश्च राजा प्रेत: पितेति च । तातं न परिगर्हेयं दैवतं चेति संसदि ।। २.१०६.
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् । स्त्रिया: प्रियं चिकीर्षु: सन् कुर्याद्धर्मज्ञ धर्मवित् ।। २.१०६.
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुति: । राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुति: कृता ।। २.१०६.
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् । तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ।। २.१०६.