तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: । अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ।। २.१०५.
तस्य साध्वित्यमन्यन्त नागरा विविधा जना: । भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ।। २.१०५.
तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् । राम: कृतात्मा भरतं समाश्वासय दात्मवान् ।। २.१०५.
नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: । इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ।। २.१०५.
सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: । संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। २.१०५.
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। २.१०५.
यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति । तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ।। २.१०५.
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।। २.१०५.
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ।। २.१०५.
आत्मानमनुशोच त्वं किमन्यमनुशोचसि । आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। २.१०५.
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।। २.१०५.
गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: । जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ।। २.१०५.
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।। २.१०५.
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ।। २.१०५.
यथा काष्ठं च काष्ठं च समेयातां महार्णवे । समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।। २.१०५.
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ।। २.१०५.
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ।। २.१०५.
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: । अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।। २.१०५.
एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: । तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ।। २.१०५.
वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: । आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ।। २.१०५.
धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। २.१०५.
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। २.१०५.
कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। २.१०५.
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। २.१०५.
आयुरुत्तममासाद्य भोगानपि च राघव: । स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। २.१०५.
स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। २.१०५.
तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। २.१०५.
एते बहुविधा: शोका विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। २.१०५.
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। २.१०५.
यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। २.१०५.