तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ।। २.१०४.
भवत्वविधवा भूमि: समग्रा पतिना त्वया । शशिना विमलेनेव शारदी रजनी यथा ।। २.१०४.
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया । भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ।। २.१०४.
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।। २.१०४.
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: । रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ।। २.१०४.
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: । भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ।। २.१०४.
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: । राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ।। २.१०४.
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।। २.१०४.
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।। २.१०४.
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: । भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।। २.१०४.
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वर: ।। २.१०४.
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। २.१०४.
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ।। २.१०४.
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। २.१०४.
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गत: ।। २.१०४.
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।। २.१०४.
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।। २.१०४.
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ।। २.१०४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग:
thumb|पञ्चाधिकशततमः सर्गः श्रूयताम्|center तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। २.१०५.
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। २.१०५.
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। २.१०५.
सान्त्विता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। २.१०५.
महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। २.१०५.
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।। २.१०५.
सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते । राम तेन तु दुर्जीवं य: परानुपजीवति ।। २.१०५.
यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: । ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ।। २.१०५.
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ।। २.१०५.
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ।। २.१०५.
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: । प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।। २.१०५.