इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्र्युत्तरशततम: सर्ग:
thumb|चतुरधिकशततमः सर्गः श्रूयताम्|center तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् । लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। २.१०४.
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।। २.१०४.
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: । हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ।। २.१०४.
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना । प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ।। २.१०४.
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ।। २.१०४.
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप । चकार सुमहत्पापमिदमात्मयशोहरम् ।। २.१०४.
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ।। २.१०४.
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि । अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ।। २.१०४.
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ।। २.१०४.
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ।। २.१०४.
भवत्वविधवा भूमि: समग्रा पतिना त्वया । शशिना विमलेनेव शारदी रजनी यथा ।। २.१०४.
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया । भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ।। २.१०४.
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।। २.१०४.
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: । रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ।। २.१०४.
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: । भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ।। २.१०४.
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: । राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ।। २.१०४.
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।। २.१०४.
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ । उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।। २.१०४.
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: । भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।। २.१०४.
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । राज्ये वापि महाराजो मां वासयितुमीश्वर: ।। २.१०४.
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। २.१०४.
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ।। २.१०४.
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। २.१०४.
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गत: ।। २.१०४.
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।। २.१०४.
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: । उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।। २.१०४.
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: । तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ।। २.१०४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग:
thumb|पञ्चाधिकशततमः सर्गः श्रूयताम्|center तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। २.१०५.