कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषित: ।। २.१०३.
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृता: ।। २.१०३.
इत: सुमित्रे पुत्रस्ते सदा जलमतन्द्रित: । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।। २.१०३.
जघन्यमपि ते पुत्र: कृतवान्न तु गर्हित: । भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणै: ।। २.१०३.
अद्यायमपि ते पुत्र: क्लेशानामतथोचित: । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।। २.१०३.
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।। २.१०३.
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रिय: ।। २.१०३.
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मन: । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।। २.१०३.
तस्य देवसमानस्य पार्थिवस्य महात्मन: । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।। २.१०३.
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभु: । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिप: ।। २.१०३.
अतो दु:खतरं लोके न किञ्चित् प्रतिभाति मा । यत्र राम: पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।। २.१०३.
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । कथं दु:खेन हृदयं न स्फोटति सहस्रधा ।। २.१०३.
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०३.
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।। २.१०३.
सर्वभोगै: परित्यक्तं रामं सम्प्रेक्ष्य मातर: । आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिता: ।। २.१०३.
तासां राम: समुत्थाय जग्राह चरणान् शुभान् । मातऽणां मनुजव्याघ्र: सर्वासां सत्यसङ्गर: ।। २.१०३.
ता: पाणिभि: सुखस्पर्शैर्मृद्वङ्गुलितलै: शुभै: । प्रममार्जू रज: पृष्ठाद्रामस्यायतलोचना: ।। २.१०३.
सौमित्रिरपि ता: सर्वा: मातऽ: सम्प्रेक्ष्य दु:खित: । अभ्यवादयतासक्तं शनै रामादनन्तरम् ।। २.१०३.
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रिय: । वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ।। २.१०३.
सीतापि चरणांस्तासामुपसंगृह्य दु:खिता । श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रत: स्थिता ।। २.१०३.
तां परिष्वज्य दु:खार्त्तां माता दुहितरं यथा । वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ।। २.१०३.
विदेहराजस्य सुता स्नुषा दशरथस्य च । रामपत्नी कथं दु:खं सम्प्राप्ता निर्जने वने ।। २.१०३.
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदै: ।। २.१०३.
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भव: ।। २.१०३.
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रज: । पादावासाद्य जग्राह वसिष्ठस्य च राघव: ।। २.१०३.
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिप: । प्रगृह्य पादौ सुसमृद्धतेजस: सहैव तेनोपविवेश राघव: ।। २.१०३.
ततो जघन्यं सहितै: समन्त्रिभि: पुरप्रधानैश्च सहैव सैनिकै: । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ।। २.१०३.
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरत: कृताञ्जलिर्यथा महेन्द्र: प्रयत: प्रजापतिम् ।। २.१०३.
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ।। २.१०३.
स राघव: सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिक: । वृता: सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यै: सहितास्त्रयो ऽग्नय: ।। २.१०३.