सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.
ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.
शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.
प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.
एतत्ते राजशार्दूल विमलं तोयमक्षयम् । पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.
ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.
ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.
इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.
ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.
तत: पर्णकुटीद्वारमासाद्य जगतीपति: । परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.
तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.
महाबलानां रुदतां कुर्वतामुदकं पितु: । विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.
अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.
अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.
हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.
अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.
भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.
सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.
तेन वित्रासिता नागा: करेणुपरिवारिता: । आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.
वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.
रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.
तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.
ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.
विगर्हमाण: कैकेयीं सहितो मन्थरामपि । अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.
तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.
स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.
स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग:
thumb|त्र्यधिकशततमः सर्गः श्रूयताम्|center वसिष्ठ: पुरत: कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षित: ।। २.१०३.
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।। २.१०३.