स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग:
thumb|द्व्यधिकशततमः सर्गः श्रूयताम्|center तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.
तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.
समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.
पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.
एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.
सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.
ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.
ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.
सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.
सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.
आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.
सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.
ततो नित्यानुगस्तेषां विदितात्मा महामति: । मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.