यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ।। २.१००.
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ।। २.१००.
कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: । कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ।। २.१००.
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ।। २.१००.
यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ।। २.१००.
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ।। २.१००.
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् । अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ।। २.१००.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे शततम: सर्ग:
thumb|एकोत्तरशततमः सर्गः श्रूयताम्|center रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.
शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.
राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.
प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग:
thumb|द्व्यधिकशततमः सर्गः श्रूयताम्|center तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.
तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.
प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.
तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.
भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.
स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.
स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.
किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.
किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.
अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.
निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.
समाप्तवनवासं मामयोध्यायां परन्तप । को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.