वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: । सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ।। २.१००.
ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा । जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ।। २.१००.
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ।। २.१००.
कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: । देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ।। २.१००.
प्रहृष्टनरनारीक: समाजोत्सवशोभित: । सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ।। २.१००.
अदेवमातृको रम्य: श्वापदै: परिवर्जित: । परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ।। २.१००.
विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: । कच्चिज्जनपद: स्फीत: सुखं वसति राघव ।। २.१००.
कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: । वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ।। २.१००.
तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् । रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ।। २.१००.
कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: । कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ।। २.१००.
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: । कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ।। २.१००.
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ।। २.१००.
कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया । सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ।। २.१००.
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: । यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ।। २.१००.
आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: । अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ।। २.१००.
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ।। २.१००.
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ।। २.१००.
गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: । कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ।। २.१००.
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ।। २.१००.
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ।। २.१००.
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ।। २.१००.
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ।। २.१००.
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: । उभौ वा प्रीतिलोभेन कामेन च न बाधसे ।। २.१००.
कच्चिदर्थं च धर्मं च कामं च जयतां वर । विभज्य काले कालज्ञ सर्वान् वरद सेवसे ।। २.१००.
कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: । आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ।। २.१००.
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ।। २.१००.
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ।। २.१००.
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: । कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ।। २.१००.
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: । अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ।। २.१००.
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ।। २.१००.