सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ।। २.१००.
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ।। २.१००.
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: । हुतं च होष्यमाणं च काले वेदयते सदा ।। २.१००.
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ।। २.१००.
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ।। २.१००.
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ।। २.१००.
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ।। २.१००.
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।। २.१००.
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।। २.१००.
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ।। २.१००.
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: । विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ।। २.१००.
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: । त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ।। २.१००.
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ।। २.१००.
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: । अथवाप्ययुतान्येव नास्ति तेषु सहायता ।। २.१००.
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: । राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ।। २.१००.
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: । जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ।। २.१००.
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ।। २.१००.
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ।। २.१००.
कच्चित्त्वां नावजानन्ति याजका: पतितं यथा । उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ।। २.१००.
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ।। २.१००.
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: । कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ।। २.१००.
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: । दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ।। २.१००.
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ।। २.१००.
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: । भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ।। २.१००.
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: । कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ।। २.१००.
कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् । यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ।। २.१००.
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ।। २.१००.
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ।। २.१००.
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बाला: पण्डितमानिन: ।। २.१००.
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ।। २.१००.