यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।। २.९९.
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।। २.९९.
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।। २.९९.
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। पादावप्राप्य रामस्य पपात भरतो रुदन् ।। २.९९.
दु:खाभितप्तो भरतो राजपुत्रो महाबल:। उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।। २.९९.
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ।। २.९९.
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ।। २.९९.
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ।। २.९९.
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ।। २.९९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग:
thumb|शततमः सर्गः श्रूयताम्|center जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ।। २.१००.
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । भ्रातरं भरतं राम: परिजग्राह बाहुना ।। २.१००.
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: । अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ।। २.१००.
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: । न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ।। २.१००.
चिरस्य बत पश्यामि दूराद्भरतमागतम् । दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ।। २.१००.
कच्चिद्धारयते तात राजा यत्त्वमिहागत: । कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ।। २.१००.
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।। २.१००.
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ।। २.१००.
कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: । राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ।। २.१००.
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: । इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ।। २.१००.
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ।। २.१००.
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: । अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ।। २.१००.
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: । हुतं च होष्यमाणं च काले वेदयते सदा ।। २.१००.
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि । वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ।। २.१००.
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ।। २.१००.
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: । कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ।। २.१००.
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ।। २.१००.
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे । कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।। २.१००.
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह । कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।। २.१००.
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ।। २.१००.