ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥१-१७-
वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥१-१७-
बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् । सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥१-१७-
धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥१-१७-
पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥१-१७-
रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥१-१७-
वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलः ॥१-१७-
मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः । वज्रसंहननोपेतो वैनतेयसमो जवे ॥१-१७-
अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः । ते गजाचलसंकाशा वपुष्मन्तो महाबलाः ॥१-१७-
ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे । यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥१-१७-
अजायत समं तेन तस्य तस्य पृथक् पृथक् । गोलाङ्गूलीषु चोत्पन्नाः किंचिदुन्नतविक्रमाः ॥१-१७-
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च । देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥१-१७-
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः । बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥१-१७-
चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः । वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥१-१७-
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च । नागकन्यासु च तदा गन्धर्वीणां तनूषु च । कामरूपबलोपेता यथाकामविचारिणः ॥१-१७-
सिंहशार्दूलसदृशा दर्पेण च बलेन च । शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥१-१७-
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः । विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥१-१७-
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् । दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान् ॥१-१७-
नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् । गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने ॥१-१७-
नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् । ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥१-१७-
शतं शतसहस्राणि यूथपानां महात्मनाम् । ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥१-१७-
बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् । अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥१-१७-
अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे । सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥१-१७-
भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः । नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥१-१७-
ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥१-१७-
महाबलो महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥१-१७-
तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥१-१७-
तैर्मेघवृन्दाचलकूटसंनिभै- :::र्महाबलैर्वानरयूथपाधिपैः बभूव भूर्भीमशरीररूपैः :::समावृता रामसहायहेतोः ॥१-१७-
thumb|अष्टादशः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥१-१८-