अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। २.९९.
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। २.९९.
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। सर्वान् कामान् परित्यज्य वने वसति राघव: ।। २.९९.
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।। २.९९.
एवं स विलपंस्तस्मिन् वने दशरथात्मज:। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। २.९९.
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। २.९९.
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ।। २.९९.
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ।। २.९९.
महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।। २.९९.
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ।। २.९९.
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।। २.९९.
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। उटजे राममासीनं जटामण्डलधारिणम् ।। २.९९.
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभित: पावकोपमम् ।। २.९९.
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ।। २.९९.
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।। २.९९.
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ।। २.९९.
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।। २.९९.
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ।। २.९९.
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ।। २.९९.
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ।। २.९९.
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।। २.९९.
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।। २.९९.
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।। २.९९.
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। पादावप्राप्य रामस्य पपात भरतो रुदन् ।। २.९९.
दु:खाभितप्तो भरतो राजपुत्रो महाबल:। उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।। २.९९.
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ।। २.९९.
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ।। २.९९.
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ।। २.९९.
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ।। २.९९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: