गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ।। २.९९.
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ।। २.९९.
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:। कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ।। २.९९.
ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्। मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ।। २.९९.
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ।। २.९९.
मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ।। २.९९.
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ।। २.९९.
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ।। २.९९.
यमेवाधातुमिच्छन्ति तापसा: सततं वने। तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ।। २.९९.
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्। आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ।। २.९९.
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। २.९९.
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। २.९९.
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। सर्वान् कामान् परित्यज्य वने वसति राघव: ।। २.९९.
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।। २.९९.
एवं स विलपंस्तस्मिन् वने दशरथात्मज:। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। २.९९.
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। २.९९.
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ।। २.९९.
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ।। २.९९.
महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।। २.९९.
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ।। २.९९.
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।। २.९९.
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। उटजे राममासीनं जटामण्डलधारिणम् ।। २.९९.
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभित: पावकोपमम् ।। २.९९.
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ।। २.९९.
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।। २.९९.
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ।। २.९९.
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।। २.९९.
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ।। २.९९.
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ।। २.९९.
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ।। २.९९.