न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्। पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।। २.९७.
प्रथममर्धमुत्तरार्धेन योजनीयम् ।। २.९७.
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:। लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ।। २.९७.
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति। समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ।। २.९७.
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ।। २.९७.
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्। प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ।। २.९७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग:
thumb|अष्टनवतितमः सर्गः श्रूयताम्|center निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। २.९८.
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। २.९८.
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। २.९८.
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ।। २.९८.
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ।। २.९८.
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ।। २.९८.
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। २.९८.
कृतकत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ।। २.९८.
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ।। २.९८.
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ।। २.९८.
एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:। पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ।। २.९८.
स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वर: ।। २.९८.
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ।। २.९८.
तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:। अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ।। २.९८.
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।। २.९८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग:
thumb|नववतितमः सर्गः श्रूयताम्|center निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ।। २.९९.
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सल: ।। २.९९.
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तर्षो भरतस्येव तस्य च ।। २.९९.
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ।। २.९९.