नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:। अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ।। २.९७.
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि। भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ।। २.९७.
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।। २.९७.
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:। राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।। २.९७.
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:। लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ।। २.९७.
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ।। २.९७.
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ।। २.९७.
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति ।। २.९७.
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघव: श्रीमान् वनादादाय यास्यति ।। २.९७.
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ।। २.९७.
स एष सुमहाकाय: कम्पते वाहिनीमुखे। नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ।। २.९७.
न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्। पितुर्दिव्यं महाबाहो संशयो भवतीह मे ।। २.९७.
प्रथममर्धमुत्तरार्धेन योजनीयम् ।। २.९७.
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:। लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ।। २.९७.
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति। समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ।। २.९७.
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ।। २.९७.
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्। प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ।। २.९७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग:
thumb|अष्टनवतितमः सर्गः श्रूयताम्|center निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। २.९८.
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। २.९८.
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। २.९८.
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ।। २.९८.
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ।। २.९८.
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।। २.९८.
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ।। २.९८.
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। २.९८.
कृतकत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ।। २.९८.
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ।। २.९८.