कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् । कलुषेणाद्य महता मेदिनी परिमुच्यताम् ।। २.९६.
अद्येमं संयतं क्रोधमसत्कारं च मानद । मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ।। २.९६.
अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: । भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ।। २.९६.
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा । श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ।। २.९६.
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे । ससैन्यं भरतं हत्वा भविष्यामि न संशय: ।। २.९६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग:
thumb|सप्तनवतितमः सर्गः श्रूयताम्|center सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्। रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ।। २.९७.
किमत्र धनुषा कार्यमसिना वा सचर्मणा। महेष्वासे महाप्राज्ञे भरते स्वयमागते ।। २.९७.
पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्। किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ।। २.९७.
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ।। २.९७.
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ।। २.९७.
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण। राज्यमप्यहमिच्छामि सत्येनायुधमालभे ।। २.९७.
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा। नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ।। २.९७.
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद। भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ।। २.९७.
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:। मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ।। २.९७.
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्। जानक्या सहितं वीर त्वया च पुरुषर्षभ ।। २.९७.
स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:। द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ।। २.९७.
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्। प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ।। २.९७.
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति। अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ।। २.९७.
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ।। २.९७.
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:। अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ।। २.९७.
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि। भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ।। २.९७.
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।। २.९७.
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:। राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ।। २.९७.
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:। लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ।। २.९७.
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ।। २.९७.
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ।। २.९७.
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति ।। २.९७.
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघव: श्रीमान् वनादादाय यास्यति ।। २.९७.
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ।। २.९७.