उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: । नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ।। २.९५.
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: । सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ।। २.९५.
इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ।। २.९५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः
thumb|षण्णवतितमः सर्गः श्रूयताम्|center तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। २.९६.
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । एवमास्ते स धर्मात्मा सीतया सह राघव: ।। २.९६.
तथा तत्रासतस्तस्य भरतस्योपयायिन: । सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ।। २.९६.
एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: । अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ।। २.९६.
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: । तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।। २.९६.
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। २.९६.
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ।। २.९६.
गजयूथानि वा ऽरण्ये महिषा वा महावने । वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ।। २.९६.
राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।। २.९६.
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ।। २.९६.
स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् । प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ।। २.९६.
उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् । रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ।। २.९६.
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् । शशंस सेनां रामाय वचनं चेदमब्रीत् ।। २.९६.
अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् । सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।। २.९६.
तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ।। २.९६.
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । दिधक्षन्निव तां सेनां रुषित: पावको यथा ।। २.९६.
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ।। २.९६.
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते । विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ।। २.९६.
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् । एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ।। २.९६.
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै । अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। २.९६.
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ।। २.९६.
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । त्वया राघव सम्प्राप्तं सीतया च मया तथा ।। २.९६.
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् । सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ।। २.९६.
भरतस्य वधे दोषं नाहं पश्यामि राघव । पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।। २.९६.
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव । एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ।। २.९६.
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका । मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ।। २.९६.