यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। २.९४.
बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। २.९४.
अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। २.९४.
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। २.९४.
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। २.९४.
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: । बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। २.९४.
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। २.९४.
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २.९४.
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: । चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। २.९४.
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। २.९४.
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: । कामिभिर्वनिते पश्य फलानि विविधानि च ।। २.९४.
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। २.९४.
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। २.९४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग:
thumb|पञ्चनवतितमः सर्गः श्रूयताम्|center अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। २.९५.
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचन: ।। २.९५.
विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।। २.९५.
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: । राजन्तीं राजराजस्य नलिनीमिव सर्वत: ।। २.९५.
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।। २.९५.
जटाजिनधरा: काले वल्कलोत्तरवासस: । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।। २.९५.
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: । एते परे विशालाक्षि मुनय: संशितव्रता: ।। २.९५.
मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: । पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ।। २.९५.
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।। २.९५.
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। २.९५.
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: । अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ।। २.९५.
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।। २.९५.
विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: । नित्यविक्षोभितजलां विगाहस्व मया सह ।। २.९५.
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।। २.९५.
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।। २.९५.
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।। २.९५.