कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। २.९३.
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। २.९३.
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। २.९३.
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। २.९३.
एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ।। २.९३.
अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। २.९३.
मृगा मृगीभि: सहिता बहव: पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। २.९३.
साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। २.९३.
भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। २.९३.
ते समालोक्य धूमाग्रमूचुर्भरतमागता: । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। २.९३.
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ।। २.९३.
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ।। २.९३.
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।। २.९३.
एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।। २.९३.
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।। २.९३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग:
thumb|चतुर्नवतितमः सर्गः श्रूयताम्|center दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। २.९४.
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। २.९४.
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। २.९४.
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। २.९४.
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: । पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। २.९४.
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: । विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। २.९४.
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। २.९४.
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: । अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। २.९४.
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। २.९४.
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: । एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। २.९४.
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। २.९४.
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। २.९४.
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। २.९४.
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। २.९४.